Shri Varaha Stotra in Sanskrit ( श्री वराहस्तोत्रम् )

Aug 30 2023 Tags: sanskrit, stotram, Vishnu

'Varaha'  is The Boar Incarnation of Lord Vishnu Listed As Third in Dashavatara the ten principal avatars of Vishnu. Varaha is most commonly associated with the legend of lifting the Earth out of the Cosmic Ocean & embodiment of sacrifice in the form of a boar. Varaha is the symbol of the restoration of the earth and the establishment of a new age. In the Vishnu Purana, Varaha is represented as the eternal upholder of earth. He is known as the picture of the Supreme Being who brings order amidst chaos in the world. Shri Varaha Stotra is mentioned in Bhagavata purana and this stotra sings the glory of Sri Vishnu as Varaha avatara. Regular chanting of this stotra gives rid from enemies, negative energies and gives positive energy and harmony in life and family.

Varaha stotram

श्री वराहस्तोत्रम्

॥ ऋषय ऊचुः ॥

जितं जितं तेऽजित यज्ञभावना त्रयीं तनुं स्वां परिधुन्वते नमः ।
यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥ १॥

रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ २॥

स्रुक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे ।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३॥

दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः ।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४॥

सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः ।
सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ५॥

नमो नमस्तेऽखिलयन्त्रदेवताद्रव्याय सर्वक्रतवे क्रियात्मने ।
वैराग्यभक्त्यात्मजयानुभावितज्ञानाय विद्यागुरवे नमो नमः ॥ ६॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा ।
यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ७॥

त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते ।
चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ८॥

संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता ।
विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ९॥

कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् ।
न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ १०॥

विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम् ।
सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः ॥ ११॥

स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः ।
यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ १२॥

॥ इति श्रीमद्भागवतपुराणान्तर्गतं वराहस्तोत्रं सम्पूर्णम् ॥

Related Posts



← Older Posts Newer Posts →

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal