Shri Gayatri Hridayam in Sanskrit ( श्री गायत्रीहृदयम )

May 31 2017 Tags: Gayatri, Kavach, mantra, sanskrit

The Gayatri Hridayam is a mantra found in the Devi Bhagavatam. The Gayatri Hridayam mantra is sung in praise of Maa Gayatri. Its mentioned in Devi Bhagavatam that Whoever recites this Gayatri Hridaya in the morning finds all the sins committed in the night all destroyed! Whoever recites this in the evening gets his sins of the day all destroyed! Whoever recites this in the evening and in the morning can rest assured to have become free of sins; he gets the fruits of all the Tîrthas; he is acquainted with all the Devas; he is saved if he has spoken anything that ought not to have been spoken. 

Gayatri Hridayam

॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम ॥
 
॥ नारद उवाच ॥
भगवन्देवदेवेश भूतभव्य जगत्प्रभो ।
कवचं च शृतं दिव्यं गायत्रीमन्त्रविग्रहम ॥१॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम ॥२॥
 
॥ श्रीनारायण उवाच ॥
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम ॥३॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥४॥
 
पिण्डब्रह्मण्दयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥
 
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥
गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट क्रमात ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥
 
 ॥ अथार्थन्यासः ॥ 
द्यौमूर्ध्नि दैवतम ॥ दन्तपङ्क्तावश् विनौ ॥ उभे सन्ध्ये चौष्ठौ ॥ मुखमग्निः ॥ जिह्वा सरस्वती ॥ ग्रीवायां तु बृहस्पतिः ॥स्तनयोर्वसवोऽष्टौ ॥ बाह्वोर्मरुतः ॥ हृदये पर्जन्यः ॥आकाशमुदरम ॥ नाभावन्तरिक्षम ॥ कट्योरिन्द्राग्नी ॥ जघने विज्ञानघनः प्रजापतिः ॥ कैलासमलये ऊरू ॥ विश्वेदेवा जान्वोः ॥ जङ्घायां कौशिकः ॥ गुह्यमयने ॥ ऊरू पितरः ॥ पादौ पृथिवी ॥ वनस्पतयोङ्गुलीषु ॥ऋषयो रोमाणि ॥ नखानि मुहूर्तानि ॥ अस्थिषु ग्रहाः ॥ असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम ॥ अहोरात्रावादित यश्चन्द्रमाः ॥ प्रवरं दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥ ॐ तत्सवितुर्वरेण्याय नमः ॥ ॐ तत्पूर्वाजयाय नमः ॥ तत्प्रातरादित्याय नमः ॥ तत्प्रातरादित्य प्रतिष्ठायै नमः ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥
सायमधीयानो दिवसकृतं पापं नाशयति ॥
सायम्प्रातरधीयानः अपापो भवति ॥
सर्वतीर्थेषु स्नातो भवति ॥ सर्वैर्देवैर्ज्ञातो भवति॥
अवाच्यवचनात्पूतो भवति ॥ अभक्ष्यभक्षणात्पूतो भवति ॥
अभोज्यभोजनात्पूतो भवति ॥ अचोष्यचोषणात्पूतो भवति ॥
असाध्यसाधनात्पूतो भवति ॥ दुष्प्रतिग्रहशत सहस्रात्पूतो भवति ॥
पङ्क्तिदूषणात्पूतो भवति ॥ अमृतवचनात्पूतो भवति ॥
अथाब्रह्मचारी ब्रह्मचारी भवती ॥
अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ॥
षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति ॥
अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत ॥ तस्य सिद्धिर्भवति ॥
य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः प्रमुच्यत इति ॥ 
ब्रह्मलोके महीयते ॥ इत्याह भगवान श्रीनारायणः ॥
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥

Related Posts



← Older Posts Newer Posts →

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal